依顏色 · 透明白
無色透明到乳白,白水晶、月光石、白玉皆屬此色。
共 1 件
आर्यावलोकितेश्वरो बोधिसत्त्वो
गम्भीरायां प्रज्ञापारमितायां
चर्यां चरमाणो व्यवलोकयति स्म
पञ्च स्कन्धाः तांश्च स्वभावशून्यान् पश्यति स्म
इह शारिपुत्र रूपं शून्यता
शून्यतैव रूपं
रूपान्न पृथक् शून्यता
शून्यताया न पृथग् रूपं
यद् रूपं सा शून्यता
या शून्यता तद् रूपं
एवमेव वेदना संज्ञा संस्कार विज्ञानानि
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा
अनुत्पन्ना अनिरुद्धा
अमला अविमला अनूना असंपूर्णाः
तस्माच्छारिपुत्र शून्यतायां
न रूपं न वेदना न संज्ञा
न संस्कारा न विज्ञानं
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
न चक्षुर्धातुर् यावन् न मनोविज्ञानधातुः
न विद्या नाविद्या
न विद्याक्षयो नाविद्याक्षयो
यावन् न जरामरणं न जरामरणक्षयो
न दुःखसमुदयनिरोधमार्गा
न ज्ञानं न प्राप्तिर् नाप्राप्तिः
तस्माच्छारिपुत्र अप्राप्तित्वाद्
बोधिसत्त्वस्य प्रज्ञापारमिताम् आश्रित्य
विहरत्य् अचित्तावरणः
चित्तावरणनास्तित्वाद् अत्रस्तो
विपर्यासातिक्रान्तो निष्ठनिर्वाणः
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः
प्रज्ञापारमिताम् आश्रित्य
अनुत्तरां सम्यक्सम्बोधिम् अभिसंबुद्धाः
तस्माज् ज्ञातव्यं प्रज्ञापारमिता
महामन्त्रो महाविद्यामन्त्रो
अनुत्तरमन्त्रो असमसममन्त्रः
सर्वदुःखप्रशमनः सत्यम् अमिथ्यत्वात्
प्रज्ञापारमितायाम् उक्तो मन्त्रः
तद्यथा
गते गते पारगते पारसंगते बोधि स्वाहा
無色透明到乳白,白水晶、月光石、白玉皆屬此色。
共 1 件
